Sukta 3.55
माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची । ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥
मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची । ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
mātā́ ca yátra duhitā́ ca dhenū́ sabardúghe dhā́payete samīcī́ | ṛtásya té sádasīḷe antár mahád devānām asura-tvám ékam ||
Where the Mother and the Daughter, two milch-cows, milk together in harmony, nourishing each other. In the inner seat of Ṛta I adore them: one is the vast lordship of the gods.
मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । ऋ॒तस्य॑ । ते॒ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघे इति सबःदुघे । धापयेते इति । समीची इति सम्ईची । ऋतस्य । ते । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरत्वम् । एकम् ॥mātā | ca | yatra | duhitā | ca | dhenū iti | sabardugheitisabaḥ-dughe | dhāpayeteiti | samīcī itisam-īcī | ṛtasya | te | sadasi | īḷe | antaḥ | mahat | devānām | asura-tvam | ekam