Sukta 3.55
नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् । श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥
नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् । श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
nā́nā cakrāte yamyā́ vapū́ṃṣi táyor anyád rócate kṛ́ṣṇam anyát | śyā́vī ca yád áruṣī ca svásārau mahád devānām asura-tvám ékam ||
Two kindred sisters fashion diverse forms: of the two, one shines, the other is dark. The dusk-hued and the ruddy—sisters—declare one vast lordship of the gods.
नाना॑ । च॒क्रा॒ते॒ इति॑ । य॒म्या॑ । वपूं॑षि । तयोः॑ । अ॒न्यत् । रोच॑ते । कृ॒ष्णम् । अ॒न्यत् । श्यावी॑ । च॒ । यत् । अरु॑षी । च॒ । स्वसा॑रौ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥नाना । चक्राते इति । यम्या । वपूंषि । तयोः । अन्यत् । रोचते । कृष्णम् । अन्यत् । श्यावी । च । यत् । अरुषी । च । स्वसारौ । महत् । देवानाम् । असुरत्वम् । एकम् ॥nānā | cakrāteiti | yamyā | vapāūṃṣi | tayoḥ | anyat | rocate | kṛṣṇam | anyat | śyāvī | ca | yat | aruṣī | ca | svasārau | mahat | devānām | asura-tvam | ekam