Sukta 3.55
विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः । अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥
विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथ॑: प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः । अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥
víṣṇur gopā́ḥ paramáṁ pā́ti pā́thaḥ priyā́ dhā́māny amṛ́tā dádhānaḥ | agníṣ ṭā́ víśvā bhúvanāni véda mahád devānām asura-tvám ékam ||
Vishnu, the guardian, protects the supreme Path, establishing the beloved immortal seats. Agni knows all these worlds: one is the vast lordship of the gods.
विष्णुः॑ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः॑ । प्रि॒या । धामा॑नि । अ॒मृता॑ । दधा॑नः । अ॒ग्निः । ता । विश्वा॑ । भुव॑नानि । वे॒द॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः । अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुरत्वम् । एकम् ॥viṣṇuḥ | gopāḥ | paramam | pāti | pāthaḥ | priyā | dhāmāni | amṛtā | dadhānaḥ | agniḥ | tā | viśvā | bhuvanāni | veda | mahat | devānām | asura-tvam | ekam