Sukta 3.54
समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके । उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥
स॒मा॒न्या वियु॑ते दू॒रेअ॑न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके॑ । उ॒त स्वसा॑रा युव॒ती भव॑न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ॥
samānyā́ ví-yute dūrè ánte dhruvé padé tasthatur jāgarū́ke | utá svasārā yuvatī́ bhávantī ā́du bruvāte mithunā́ni nā́ma ||
Though one in essence, they are separated to far ends; in the firm station they stand, awake. And as two sisters, becoming young in their ever-renewing power, they speak forth the paired names (the dualities through which the world is ordered).
स॒मा॒न्या । वियु॑ते॒ इति॒ विऽयु॑ते । दू॒रेअ॑न्ते॒ इति॑ दू॒रेऽअ॑न्ते । ध्रु॒वे । प॒दे । त॒स्थ॒तुः॒ जा॒ग॒रूके॑ । उ॒त । स्वसा॑रा । यु॒व॒ती इति॑ । भव॑न्ती॒ इति॑ । आत् । ऊँ॒ इति॑ । ब्रु॒वा॒ते॒ इति॑ । मि॒थु॒नानि॑ । नाम॑ ॥समान्या । वियुते इति वियुते । दूरेअन्ते इति दूरेअन्ते । ध्रुवे । पदे । तस्थतुः जागरूके । उत । स्वसारा । युवती इति । भवन्ती इति । आत् । ऊँ इति । ब्रुवाते इति । मिथुनानि । नाम ॥samānyā | viyuteitivi-yute | dūreanteitidūre--ante | dhruve | pade | tasthatuḥ jāgarūke | uta | svasārā | yuvatī iti | bhavantī iti | āt | oṃ iti | bruvāteiti | mithunāni | nāma