Sukta 3.54
विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते । एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥
विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते । एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ॥
viśvā́d eté jánimā sáṃ vivikto mahó devā́n bíbhratī ná vyathete | éjad dhruváṃ patyate viśvám ékaṃ cárat patatrí víṣuṇaṃ ví jātám ||
All these births are set apart in their order; bearing the great gods, the two do not falter. The moving leans upon the unmoving; the whole is one. The winged that moves goes forth, variously born and widely manifested.
विश्वा॑ । इत् । ए॒ते इति॑ । जनि॑म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र॑ती॒ इति॑ । न । व्य॒थे॒ते॒ इति॑ । एज॑त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व॑म् । एक॑म् । चर॑त् । प॒त॒त्रि । विषु॑णम् । वि । जा॒तम् ॥विश्वा । इत् । एते इति । जनिम । सम् । विविक्तः । महः । देवान् । बिभ्रती इति । न । व्यथेते इति । एजत् । ध्रुवम् । पत्यते । विश्वम् । एकम् । चरत् । पतत्रि । विषुणम् । वि । जातम् ॥viśvā | it | ete iti | janima | sam | viviktaḥ | mahaḥ | devān | bibhratī iti | na | vyatheteiti | ejat | dhruvam | patyate | viśvam | ekam | carat | patatri | v iṣuṇam | vi | jātam