Sukta 3.54
कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती । नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥
क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती । नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥
kavír nṛ-cákṣā abhí sī́m acaṣṭa ṛtásya yónā ví-ghṛte mádantī | nā́nā cakrāte sádanam yáthā véḥ samānéna krátunā saṃvidānē ||
The seer, with the eye for men, has beheld them: the two mothers rejoicing in the wide-spread (world), the womb of Rita. They fashion their dwelling in many ways, as you know—yet they are in mutual accord by one and the same will of consciousness (kratu).
क॒विः । नृ॒ऽचक्षा॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ । नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । स॒व्ँम्वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥कविः । नृचक्षा । अभि । सीम् । अचष्ट । ऋतस्य । योना । विघृते इति विघृते । मदन्ती इति । नाना । चक्राते इति । सदनम् । यथा । वेः । समानेन । क्रतुना । सव्ँम्विदाने इति सम्विदाने ॥kaviḥ | nṛ-cakṣā | abhi | sīm | acaṣṭa | ṛtasya | yonā | vighṛteitivi-ghṛte | madantī iti | nānā | cakrāteiti | sadanam | yathā | veḥ | samānena | kratunā | saṃvidāne itisam-vidāne