Sukta 3.54
को अद्धा वेद क इह प्र वोचद्देवाँ अच्छा पथ्या का समेति । ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति । ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
kó addhā́ veda ká ihá prá vocad devā́ṃ ácchā pathyā̀ kā́ saméti | dadṛ́śra eṣām avamā́ sadā́ṃsi páreṣu yā́ gúhyeṣu vratéṣu ||
Who truly knows, who here can declare the right path by which one reaches the gods? Their lower seats are seen; but those that are beyond—hidden in the secret laws—(are hard to perceive).
कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वान् । अच्छ॑ । प॒थ्या॑ । का । सम् । ए॒ति॒ । ददृ॑श्रे । ए॒षा॒म् । अ॒व॒मा । सदां॑सि । परे॑षु । या । गुह्ये॑षु । व्र॒तेषु॑ ॥कः । अद्धा । वेद । कः । इह । प्र । वोचत् । देवान् । अच्छ । पथ्या । का । सम् । एति । ददृश्रे । एषाम् । अवमा । सदांसि । परेषु । या । गुह्येषु । व्रतेषु ॥kaḥ | addhā | veda | kaḥ | iha | pra | vocat | devān | accha | pathyā | kā | sam | eti | dadṛśre | eṣām | avamā | sadāṃsi | pareṣu | yā | guhyeṣu | vrateṣu