Sukta 3.54
उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः । नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥
उ॒तो हि वां॑ पू॒र्व्या आ॑विवि॒द्र ऋता॑वरी रोदसी सत्य॒वाच॑: । नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ॥
utó hí vāṃ pū́rvyā āvividrá ṛtā́varī rodasī satyá-vācaḥ | náraś cid vāṃ samithé śū́ra-sātau vavandiré pṛthivi vévidānāḥ ||
For indeed the ancient ones have found you, O Heaven and Earth, you who are rich in Rita, you whose speech is Truth. Even men in the battle for the hero’s gain have adored you, O Earth, when they awakened to knowledge.
उ॒तो इति॑ । हि । वा॒म् । पू॒र्व्याः । आ॒ऽवि॒वि॒द्रे । ऋत॑वरी॒ इत्यृत॑ऽवरी । रो॒द॒सी॒ इति॑ । स॒त्य॒ऽवाचः॑ । नरः॑ । चि॒त् । वा॒म् । स॒म्ऽइ॒थे । शूर॑ऽसातौ । व॒व॒न्दि॒रे । पृ॒थि॒वि॒ । वेवि॑दानाः ॥उतो इति । हि । वाम् । पूर्व्याः । आविविद्रे । ऋतवरी इत्यृतवरी । रोदसी इति । सत्यवाचः । नरः । चित् । वाम् । सम्इथे । शूरसातौ । ववन्दिरे । पृथिवि । वेविदानाः ॥uto iti | hi | vām | pūrvyāḥ | āvividre | ṛtavarī ity ṛta-varī | rodasī iti | satya-vācaḥ | naraḥ | cit | vām | sam-ithe | śūra-sātau | vavandire | pṛthivi | vevidānāḥ