Sukta 3.54
सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त । भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥
सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धी॒: सं पि॑पृक्त । भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥
sadā́ su-gáḥ pitu-mā́m̐ astu pánthā mádhvā devā́ oṣádhīḥ sáṃ pipṛkta | bhágo me agne sakhyé ná mṛdhyā údrāyo aśyāṃ sádanaṃ puru-kṣóḥ ||
May the path be always easy and rich in true sustenance; with sweetness, O Gods, harmonize the healing powers within us. O Agni, as Bhaga for me, do not fail in friendship; may I rise into the plenitudes of being and attain the dwelling of wide extension.
सदा॑ । सु॒ऽगः । पि॒तु॒ऽमान् । अ॒स्तु॒ । पन्था॑ । मध्वा॑ । दे॒वाः॒ । ओष॑धीः । सम् । पि॒पृ॒क्त॒ । भगः॑ । मे॒ । अ॒ग्ने॒ । स॒ख्ये । न । मृ॒ध्याः॑ । उत् । रा॒यः । अ॒श्या॒म् । सद॑नम् । पु॒रु॒ऽक्षोः ॥सदा । सुगः । पितुमान् । अस्तु । पन्था । मध्वा । देवाः । ओषधीः । सम् । पिपृक्त । भगः । मे । अग्ने । सख्ये । न । मृध्याः । उत् । रायः । अश्याम् । सदनम् । पुरुक्षोः ॥sadā | su-gaḥ | pitu-mān | astu | panthā | madhvā | devāḥ | oṣadhīḥ | sam | pipṛkta | bhagaḥ | me | agne | sakhye | na | mṛdhyāḥ | ut | rāyaḥ | aśyām | sadanam | puru-kṣoḥ