Sukta 3.54
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् । ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन् । ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ॥
máhi mahé divé arcā pṛthivyái kā́mo ma icchán cárati prajā́nann | yáyor ha stóme vidáthēṣu devā́ḥ saparyávo mā́dayante sacā́yoḥ ||
Sing a vast hymn to the Great Heaven and to Earth. In me the seeking desire moves, knowing its aim. For in their praise, in the sessions of right-order, the gods who serve and accomplish the work rejoice together with the two (Heaven and Earth).
महि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् । ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥महि । महे । दिवे । अर्च । पृथिव्यै । कामः । मे । इच्छन् । चरति । प्रजानन् । ययोः । ह । स्तोमे । विदथेषु । देवाः । सपर्यवः । मादयन्ते । सचा । आयोः ॥mahi | mahe | dive | arca | pṛthivyai | kāmaḥ | me | icchan | carati | pra-jānan | yayoḥ | ha | stome | vidatheṣu | devāḥ | saparyavaḥ | mādayante | sacā | āyoḥ