Sukta 3.54
इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः । शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥
इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः । शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ॥
imáṃ mahé vidathyā́ya śūṣáṃ śaśvát-kṛtva ī́ḍyāya prá jabhruḥ | śṛṇótu no dámyebhir anī́kaiḥ śṛṇótv agnír divyáir ájasraḥ ||
This mighty force for the sacred assembly we have brought forth again and again for the adorable One. Let Agni hear us with his powers that master and tame; let the unceasing Fire hear with his divine front-ranks (luminous faculties).
इ॒मम् । म॒हे । वि॒द॒थ्या॑य । शू॒षम् । शश्व॑त् । कृत्वः॑ । ईड्या॑य । प्र । ज॒भ्रुः॒ । शृ॒णोतु॑ । नः॒ । दम्ये॑भिः । अनी॑कैः । शृ॒णोतु॑ । अ॒ग्निः । दि॒व्यैः । अज॑स्रः ॥इमम् । महे । विदथ्याय । शूषम् । शश्वत् । कृत्वः । ईड्याय । प्र । जभ्रुः । शृणोतु । नः । दम्येभिः । अनीकैः । शृणोतु । अग्निः । दिव्यैः । अजस्रः ॥imam | mahe | vidathyāya | śūṣam | śaśvat | kṛtvaḥ | īḍyāya | pra | jabhruḥ | śṛṇotu | naḥ | damyebhiḥ | anīkaiḥ | śṛṇotu | agniḥ | divyaiḥ | ajasraḥ