Sukta 3.54
देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता । शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥
दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता । शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒ताप॒: सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षम् ॥
devānā́m dūtáḥ purudhá prasūtó’nā́gān no vocatu sarva-tā́tā | śṛṇótu naḥ pṛthivī́ dyáur utā́paḥ sū́ryo nákṣatrair urú antárikṣam ||
May the messenger of the Gods, manifoldly impelled, speak for us faultless wholeness on every side. May Earth hear us, and Heaven, and the Waters; may the Sun with the host of stars, and the wide mid-world, give ear to our aspiration.
दे॒वाना॑म् । दू॒तः । पु॒रु॒ध । प्रऽसू॑तः । अना॑गान् । नः॒ । वो॒च॒तु॒ । स॒र्वऽता॑ता । शृ॒णोतु॑ । नः॒ । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । सूर्यः॑ । नक्ष॑त्रैः । उ॒रु । अ॒न्तरि॑क्षम् ॥देवानाम् । दूतः । पुरुध । प्रसूतः । अनागान् । नः । वोचतु । सर्वताता । शृणोतु । नः । पृथिवी । द्यौः । उत । आपः । सूर्यः । नक्षत्रैः । उरु । अन्तरिक्षम् ॥devānām | dūtaḥ | purudha | pra-sūtaḥ | anāgān | naḥ | vocatu | sarva-tātā | śṛṇotu | naḥ | pṛthivī | dyauḥ | uta | āpaḥ | sūryaḥ | nakṣatraiḥ | uru | antarikṣam