Sukta 3.54
अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि । युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः ॥
अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । यु॒योत॑ नो अनप॒त्यानि॒ गन्तो॑: प्र॒जावा॑न्नः पशु॒माँ अ॑स्तु गा॒तुः ॥
aryamā́ ṇo áditiḥ yajñíyāso ádabdhāni váruṇasya vratā́ni | yuyóta no anapatyā́ni gántoḥ prajā́vān naḥ paśu-mā́ṃ astu gātúḥ ||
May Aryaman and Aditi, worthy of the offering, and the un-failing laws of Varuṇa, protect us. Drive away from us the ways that lead to barrenness; may our path be rich in progeny and rich in the herds of light-energies.
अ॒र्य॒मा । नः॒ । अदि॑तिः । य॒ज्ञिया॑सः । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । यु॒योत॑ । नः॒ । अ॒न॒प॒त्यानि॑ । गन्तोः॑ । प्र॒जाऽवा॑न् । नः॒ । प॒शु॒ऽमान् । अ॒स्तु॒ । गा॒तुः ॥अर्यमा । नः । अदितिः । यज्ञियासः । अदब्धानि । वरुणस्य । व्रतानि । युयोत । नः । अनपत्यानि । गन्तोः । प्रजावान् । नः । पशुमान् । अस्तु । गातुः ॥aryamā | ṇaḥ | aditiḥ | yajñiyāsaḥ | adabdhāni | varuṇasya | vratāni | yuyota | naḥ | anapatyāni | gantoḥ | prajāvān | naḥ | paśu-mān | astu | gātuḥ