Sukta 3.54
महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे । सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥
म॒हत्तद्व॑: कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ । सख॑ ऋ॒भुभि॑: पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥
mahát tád vaḥ kavayaś cā́ru nā́ma yád dha devā́ bhávatha víśva índre | sákhā ṛ́bhubhiḥ puruhūta priyébhiḥ imā́ṃ dhíyaṃ sātáye takṣatā naḥ ||
Great is that, O seers, your fair name—since indeed you gods become all in Indra. O much-invoked one, friend with the beloved Ṛbhus, fashion for us this thought for the winning.
म॒हत् । तत् । वः॒ । क॒व॒यः॒ । चारु॑ । नाम॑ । यत् । ह॒ । दे॒वाः॒ । भव॑थ । विश्वे॑ । इन्द्रे॑ । सखाः॑ । ऋ॒भुऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्रि॒येभिः॑ । इ॒माम् । धिय॑म् । सा॒तये॑ । त॒क्ष॒त॒ । नः॒ ॥महत् । तत् । वः । कवयः । चारु । नाम । यत् । ह । देवाः । भवथ । विश्वे । इन्द्रे । सखाः । ऋभुभिः । पुरुहूत । प्रियेभिः । इमाम् । धियम् । सातये । तक्षत । नः ॥mahat | tat | vaḥ | kavayaḥ | cāru | nāma | yat | ha | devāḥ | bhavatha | viśve | indre | sakhāḥ | ṛbhu-bhiḥ | puru-hūta | priyebhiḥ | imām | dhiyam | sātaye | takṣata | naḥ