Sukta 3.54
नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम । युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥
नास॑त्या मे पि॒तरा॑ बन्धु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ । यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥
nā́satyā me pitarā bandhu-pṛ́cchā sajā́tyam aśvínoś cā́ru nā́ma | yuváṃ hí sthó rayidáu no rayīṇā́ṃ dātráṃ rakṣethe akávair adabdhā́ ||
O Nāsatyas, my two Fathers, asked as kin by the friend-seeking heart—your fair name is of one lineage. For you indeed are givers of plenitude; you guard for us the gift of riches, un-deceived by the crooked forces.
नास॑त्या । मे॒ । पि॒तरा॑ । ब॒न्धु॒ऽपृच्छा॑ । स॒ऽजा॒त्य॑म् । अ॒श्विनोः॑ । चारु॑ । नाम॑ । यु॒वम् । हि । स्थः । र॒यि॒ऽदौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति॑ । अक॑वैः । अद॑ब्धा ॥नासत्या । मे । पितरा । बन्धुपृच्छा । सजात्यम् । अश्विनोः । चारु । नाम । युवम् । हि । स्थः । रयिदौ । नः । रयीणाम् । दात्रम् । रक्षेथे इति । अकवैः । अदब्धा ॥nāsatyā | me | pitarā | bandhu-pṛcchā | sa-jātyam | aśvinoḥ | cāru | nāma | yuvam | h i | sthaḥ | rayi-dau | naḥ | rayīṇām | dātram | rakṣetheiti | akavaiḥ | adabdhā