Sukta 3.54
विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् । उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥
विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् । उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ॥
víṣṇuṃ stómāsaḥ puru-dasmám arkā́ bhágasyeva kāríṇo yā́mani gman | urukramáḥ kakuhó yásya pū́rvīr ná mardhanti yuvatáyo jánitrīḥ ||
To Viṣṇu the hymns and chants go on their way, like workers to Bhaga’s portion. Wide-striding, high-crested is he, whose many former births—those youthful, creative powers—do not fail or grow diminished.
विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् । उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥विष्णुम् । स्तोमासः । पुरुदस्मम् । अर्काः । भगस्यइव । कारिणः । यामनि । ग्मन् । उरुक्रमः । ककुहः । यस्य । पूर्वीः । न । मर्धन्ति । युवतयः । जनित्रीः ॥viṣṇum | stomāsaḥ | puru-dasmam | arkāḥ | bhagasya-iva | kāriṇaḥ | yāmani | gman | uru-kramaḥ | kakuhaḥ | yasya | pūrvīḥ | na | mardhanti | yuvatayaḥ | janitrīḥ