Sukta 3.54
विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः । सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥
वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यास॑: । सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥
vidyúd-rathā marúta ṛṣṭi-mánto divó maryā́ ṛtá-jātā ayā́saḥ | sárasvatī śṛṇavan yajñíyāso dhā́tā rayíṃ sahá-vīraṃ turāsaḥ ||
Maruts with lightning for chariots, spear-bearing youths of heaven, born of the Truth and tireless—may they hear. May Sarasvatī hear, worthy of the offering; may Dhātṛ, O swift ones, establish for us the spiritual richness with heroic energies.
वि॒द्युत्ऽर॑थाः । म॒रुतः॑ । ऋ॒ष्टि॒ऽमन्तः॑ । दि॒वः । मर्याः॑ । ऋ॒तऽजा॑ताः । अ॒यासः॑ । सर॑स्वती । शृ॒ण॒व॒न् । य॒ज्ञिया॑सः । धात॑ । र॒यिम् । स॒हऽवी॑रम् । तु॒रा॒सः॒ ॥विद्युत्रथाः । मरुतः । ऋष्टिमन्तः । दिवः । मर्याः । ऋतजाताः । अयासः । सरस्वती । शृणवन् । यज्ञियासः । धात । रयिम् । सहवीरम् । तुरासः ॥vidyut-rathāḥ | marutaḥ | ṛṣṭi-mantaḥ | divaḥ | maryāḥ | ṛta-jātāḥ | ayāsaḥ | sarasvatī | śṛṇavan | yajñiyāsaḥ | dhāta | rayim | saha-vīram | turāsaḥ