Sukta 3.54
सुकृत्सुपाणिः स्ववाँ ऋतावा देवस्त्वष्टावसे तानि नो धात् । पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥
सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् । पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥
sukṛ́t supāṇíḥ svávāṃ ṛtā́vā devás tvaṣṭā́vase tā́ni no dhāt | pūṣaṇvántā ṛ́bhavo mādayadhvam ūrdhvā́-grāvāṇo adhvarám ataṣṭa ||
May Tvaṣṭṛ, the god of perfect making—good-worker, good-handed, self-possessing, keeper of the Truth—set for us those helps. O Ṛbhus, with Pūṣan as companion, grow glad; you who lift the pressing-stones upward, you have fashioned the sacrifice.
सु॒ऽकृत् । सु॒ऽपा॒णिः । स्वऽवा॑न् । ऋ॒तऽवा॑ । दे॒वः । त्वष्टा॑ । अव॑से । तानि॑ । नः॒ । धा॒त् । पू॒ष॒ण्ऽवन्तः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । ऊ॒र्ध्वऽग्रा॑वाणः । अ॒ध्व॒रम् । अ॒त॒ष्ट॒ ॥सुकृत् । सुपाणिः । स्ववान् । ऋतवा । देवः । त्वष्टा । अवसे । तानि । नः । धात् । पूषण्वन्तः । ऋभवः । मादयध्वम् । ऊर्ध्वग्रावाणः । अध्वरम् । अतष्ट ॥su-kṛt | su-pāṇiḥ | sva-vān | ṛta-vā | devaḥ | tvaṣṭā | avase | tāni | naḥ | dhāt | pūṣaṇ-vantaḥ | ṛbhavaḥ | mādayadhvam | ūrdhva-grāvāṇaḥ | adhvaram | ataṣṭa