Sukta 3.54
हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः । देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥
हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः । दे॒वेषु॑ च सवित॒: श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ॥
híraṇya-pāṇiḥ savitā́ sujihvás trír ā́ divó vidáthe pátyamānaḥ | devéṣu ca savitar ślókám aśrer ā́d asmábhyam ā́ suva sarvá-tātim ||
Savitṛ of golden hands, of noble tongue, thrice taking lordship in the assemblies of heaven; and among the gods, O Savitṛ, you have set the luminous chant—then for us, bring forth the plenitude in every way.
हिर॑ण्यऽपाणिः॑ । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः । दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥हिरण्यपाणिः । सविता । सुजिह्वः । त्रिः । आ । दिवः । विदथे । पत्यमानः । देवेषु । च । सवितरिति । श्लोकम् । अश्रेः । आत् । अस्मभ्यम् । आ । सुव । सर्वतातिम् ॥hiraṇya-pāṇiḥ | savitā | su-jihvaḥ | triḥ | ā | divaḥ | vidathe | patyamānaḥ | deveṣu | ca | savitariti | ślokam | aśreḥ | āt | asmabhyam | ā | suva | sarva-tātim