Sukta 3.54
इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः । मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥
इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दरा॑: शृणवन्नग्निजि॒ह्वाः । मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यास॑: क॒वय॑: पप्रथा॒नाः ॥
imáṃ stómaṃ rodasī́ prá bravīmy ṛdū́darāḥ śṛṇavan agni-jihvā́ḥ | mitráḥ samrā́jo váruṇo yúvān ādityā́saḥ kaváyaḥ paprathānā́ḥ ||
This hymn I proclaim forth to Heaven-and-Earth; may the wide-bosomed ones hear, the flame-tongued powers. Mitra the sovereign and Varuṇa the ever-young; the Ādityas, seer-powers, spreading in their vastness.
इ॒मम् । स्तोम॑म् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः॑ । शृ॒ण॒व॒न् । अ॒ग्नि॒ऽजि॒ह्वाः । मि॒त्रः । स॒म्ऽराजः॑ । वरु॑णः । युवा॑नः । आ॒दि॒त्यासः॑ । क॒वयः॑ । प॒प्र॒था॒नाः ॥इमम् । स्तोमम् । रोदसी इति । प्र । ब्रवीमि । ऋदूदराः । शृणवन् । अग्निजिह्वाः । मित्रः । सम्राजः । वरुणः । युवानः । आदित्यासः । कवयः । पप्रथानाः ॥imam | stomam | rodasī iti | pra | bravīmi | ṛdūdarāḥ | śṛṇavan | agni-jihvāḥ | mitraḥ | sam-rājaḥ | varuṇaḥ | yuvānaḥ | ādityāsaḥ | kavayaḥ | paprathānāḥ