Sukta 3.53
महाँ ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः । विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥
म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षा॑: । वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्र॑: ॥
mahā́n ṛ́ṣir devajā́ devajū́to ástabhnāt síndhum arṇaváṃ nṛcákṣāḥ | viśvā́mitro yád ávahat sudā́sam ápriyāyata kuśikébhir índraḥ ||
The great seer, born of the gods and impelled by the gods, the human-seeing one, held firm the oceanic river. When Viśvāmitra bore Sudās across, Indra moved with the Kuśikas, turning against what was hostile.
म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ । वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥महान् । ऋषिः । देवजाः । देवजूतः । अस्तभ्नात् । सिन्धुम् । अर्णवम् । नृचक्षाः । विश्वामित्रः । यत् । अवहत् । सुदासम् । अप्रियायत । कुशिकेभिः । इन्द्रः ॥mahān | ṛṣiḥ | deva-jāḥ | deva-jūtaḥ | astabhnāt | sindhum | arṇavam | nṛ-cakṣāḥ | viśvāmitraḥ | yat | avahat | su-dāsam | apriyāyata | kuśikebhiḥ | indraḥ