Sukta 3.53
रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् । त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥
रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं१॒॑ परि॒ स्वाम् । त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥
rūpáṃ-rūpaṃ maghávā bobhavīti māyā́ḥ kṛṇvānáḥ tanvàṃ pari svā́m | trír yád diváḥ pari muhūrtám ā́gāt sváir mantráir anṛtupā́ ṛtā́vā ||
Form after form the bounteous One becomes, shaping his own body with powers of creative measure. Thrice he moved around the heaven in a moment, by his own mantras—guardian against disorder, establisher of the Truth-Order.
रू॒पम्ऽरू॑पम् । म॒घऽवा॑ । बो॒भ॒वी॒ति॒ । मा॒याः । कृ॒ण्वा॒नः । त॒न्व॑म् । परि॑ । स्वाम् । त्रिः । यत् । दि॒वः । परि॑ । मु॒हू॒र्तम् । आ । अगा॑त् । स्वैः । मन्त्रैः॑ । अनृ॑तुऽपाः । ऋ॒तऽवा॑ ॥रूपम्रूपम् । मघवा । बोभवीति । मायाः । कृण्वानः । तन्वम् । परि । स्वाम् । त्रिः । यत् । दिवः । परि । मुहूर्तम् । आ । अगात् । स्वैः । मन्त्रैः । अनृतुपाः । ऋतवा ॥rūpam-rūpam | magha-vā | bobhavīti | māyāḥ | kṛṇvānaḥ | tanvam | pari | svām | tr iḥ | yat | divaḥ | pari | muhūrtam | ā | agāt | svaiḥ | mantraiḥ | anṛtu-pāḥ | ṛta-vā