Sukta 3.53
हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा । देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥
हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ । दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥
haṃsā́ iva kṛṇutha ślókám ádri-bhir mádanto gī́rbhir adhvaré suté sacā́ | devébhir viprā ṛ́ṣayo nṛcákṣaso ví pibadhvaṃ kuśikāḥ sómyaṃ mádhu ||
Like swans, fashion the clear chant; intoxicated with the pressing-stones, with the hymns, together in the sacrifice where Soma is pressed. O inspired seers, human-seeing, with the gods—drink fully, Kuśikas, the honeyed Soma-delight.
हं॒साःऽइ॑व । कृ॒णु॒थ॒ । श्लोक॑म् । अद्रि॑ऽभिः । मद॑न्तः । गीः॒ऽभिः । अ॒ध्व॒रे । सु॒ते । सचा॑ । दे॒वेभिः॑ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒ऽच॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु॑ ॥हंसाःइव । कृणुथ । श्लोकम् । अद्रिभिः । मदन्तः । गीःभिः । अध्वरे । सुते । सचा । देवेभिः । विप्राः । ऋषयः । नृचक्षसः । वि । पिबध्वम् । कुशिकाः । सोम्यम् । मधु ॥haṃsāḥ-iva | kṛṇutha | ślokam | adri-bhiḥ | madantaḥ | gīḥ-bhiḥ | adhvare | sute | sacā | devebhiḥ | viprāḥ | ṛṣayaḥ | nṛ-cakṣasaḥ | vi | pibadhvam | kuśikāḥ | somyam | madhu