Sukta 3.53
इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः । विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥
इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयु॑: ॥
imé bhojā́ aṅgíraso virū́pā divás putrā́so ásurasya vīrā́ḥ | viśvā́mitrāya dádatō maghā́ni sahasra-sā́ve prá tirante ā́yuḥ ||
These beneficent Angirases, manifold in form—sons of the luminous heaven, heroes of the Asura (the Lord)—giving gifts of plenitude to Viśvāmitra, extend the life-force forward through a thousand outpourings.
इ॒मे । भो॒जाः । अङ्गि॑रसः । विऽरू॑पाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । वि॒श्वामि॑त्राय । दद॑तः । म॒घानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥इमे । भोजाः । अङ्गिरसः । विरूपाः । दिवः । पुत्रासः । असुरस्य । वीराः । विश्वामित्राय । ददतः । मघानि । सहस्रसावे । प्र । तिरन्ते । आयुः ॥ime | bhojāḥ | aṅgirasaḥ | vi-rūpāḥ | divaḥ | putrāsaḥ | asurasya | vīrāḥ | viśvāmitrāya | dadataḥ | maghāni | sahasra-sāve | pra | tirante | āyuḥ