Sukta 3.53
अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥
अपा॒: सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥
apā́ḥ sómam ástam indra prá yāhi kalyāṇī́r jāyā́ su-ráṇaṃ gṛhé te | yátrā rathásya bṛható nidhā́naṃ vimócanam vājíno dakṣiṇā́vat ||
Having drunk the Soma, go forth, O Indra, to your home—where the fair, fortunate consort dwells, rich in gladness, in your house. There is the placing of the vast chariot and the freeing of the forceful one, attended by right giving (dakṣiṇā).
अपाः॑ । सोम॑म् । अस्त॑म् । इ॒न्द्र॒ । प्र । या॒हि॒ । क॒ल्या॒णीः । जा॒या । सु॒ऽरण॑म् । गृ॒हे । ते॒ । यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । दक्षि॑णाऽवत् ॥अपाः । सोमम् । अस्तम् । इन्द्र । प्र । याहि । कल्याणीः । जाया । सुरणम् । गृहे । ते । यत्र । रथस्य । बृहतः । निधानम् । विमोचनम् । वाजिनः । दक्षिणावत् ॥apāḥ | somam | astam | indra | pra | yāhi | kalyāṇīḥ | jāyā | su-raṇam | gṛhe | te | yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | dakṣiṇāvat