Sukta 3.53
परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् । यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥
परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥
párā yāhi maghaván nā́ ca yāhī́ndra bhrātar ubháyatrā te ártham | yátrā rathásya bṛható nidhā́naṃ vimócanam vājíno rāsábhasya ||
Go forth, O bounteous Indra, and also come back—O brother—your purpose is in both movements: where the great chariot’s placing is, and where the release of the forceful bearer is found.
परा॑ । या॒हि॒ । म॒घ॒ऽव॒न् । आ । च॒ । या॒हि॒ । इन्द्र॑ । भ्रा॒तः॒ । उ॒भ॒यत्र॑ । ते॒ । अर्थ॑म् । यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । रास॑भस्य ॥परा । याहि । मघवन् । आ । च । याहि । इन्द्र । भ्रातः । उभयत्र । ते । अर्थम् । यत्र । रथस्य । बृहतः । निधानम् । विमोचनम् । वाजिनः । रासभस्य ॥parā | yāhi | magha-van | ā | ca | yāhi | indra | bhrātaḥ | ubhayatra | te | artham | yatra | rathasya | bṛhataḥ | ni-dhānam | vi-mocanam | vājinaḥ | rāsabhasya