Sukta 3.53
शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥
शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाह॑: कृणवाव॒ जुष्ट॑म् । एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥
śaṃsā́vādhvaryó práti me gṛṇīhí indrā́ya vā́haḥ kṛṇavāva júṣṭam | édaṃ barhír yajamānasya sī́dā́thā ca bhūd ukthám indrā́ya śastám ||
O Adhvaryu, respond to my call and utter the word of affirmation: we will make the offering-path (vāhaḥ) delightful and acceptable to Indra. Sit upon this sacred seat (barhis) of the one who seeks by sacrifice; then let the inspired utterance become a true praise shaped for Indra.
शंसा॑व । अ॒ध्व॒र्यो॒ इति॑ । प्रति॑ । मे॒ । गृ॒णी॒हि॒ । इन्द्रा॑य । वाहः॑ । कृ॒ण॒वा॒व॒ । जुष्ट॑म् । आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । अथ॑ । च॒ । भू॒त् । उ॒क्थम् । इन्द्रा॑य । श॒स्तम् ॥शंसाव । अध्वर्यो इति । प्रति । मे । गृणीहि । इन्द्राय । वाहः । कृणवाव । जुष्टम् । आ । इदम् । बर्हिः । यजमानस्य । सीद । अथ । च । भूत् । उक्थम् । इन्द्राय । शस्तम् ॥śaṃsāva | adhvaryo iti | prati | me | gṛṇīhi | indrāya | vāhaḥ | kṛṇavāva | juṣṭam | ā | idam | barhiḥ | yajamānasya | sīda | atha | ca | bhūt | uktham | indrāya | śastam