Sukta 3.53
तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि । पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥
तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गा॒: सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि । पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥
tíṣṭhā su káṃ maghavan mā́ parā́ gāḥ | sómasya nú tvā súsutasya yakṣi | pitúr ná putráḥ sícam ā́ rabhé ta índra svā́diṣṭhayā girā́ śacīvaḥ ||
Stand here in peace, O bountiful one; do not depart. Now I invoke you for the well-pressed Soma. Like a son reaching for the father’s portion, I reach for your outpouring, O Indra, with the sweetest speech, O master of effective power.
तिष्ठ॑ । सु । क॒म् । म॒घ॒ऽव॒न् । मा । परा॑ । गाः॒ । सोम॑स्य । नु । त्वा॒ । सुऽसु॑तस्य । य॒क्षि॒ । पि॒तुः । न । पु॒त्रः । सिच॑म् । आ । र॒भे॒ । ते॒ । इन्द्र॑ । स्वादि॑ष्ठया । गि॒रा । श॒ची॒ऽवः॒ ॥तिष्ठ । सु । कम् । मघवन् । मा । परा । गाः । सोमस्य । नु । त्वा । सुसुतस्य । यक्षि । पितुः । न । पुत्रः । सिचम् । आ । रभे । ते । इन्द्र । स्वादिष्ठया । गिरा । शचीवः ॥tiṣṭha | su | kam | magha-van | mā | parā | gāḥ | somasya | nu | tvā | su-sutasya | yakṣi | pituḥ | na | putraḥ | sicam | ā | rabhe | te | indra | svādiṣṭhayā | girā | śacī-vaḥ