Sukta 3.53
इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व । यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥
इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व । यो नो॒ द्वेष्ट्यध॑र॒: सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥
índro ū́tibhir bahulā́bhir no adyá yāt-śréṣṭhābhir maghavan chūra jinva | yó no dvéṣṭy ádharaḥ sá spadīṣṭa yám u dvíṣmas tám u prāṇó jahātu ||
May Indra today come to us with his many helps, with the best aids; O Maghavan, O hero, set us in the forward surge. Whoever hates us, low in consciousness—let him fall away; whom we oppose, let his very breath abandon him.
इन्द्र॑ । ऊ॒तिऽभिः॑ । ब॒हु॒लाभिः॑ । नः॒ । अ॒द्य । या॒त्ऽश्रे॒ष्ठाभिः॑ । म॒घ॒ऽव॒न् । शू॒र॒ । जि॒न्व॒ । यः । नः॒ । द्वेष्टि॑ । अध॑रः । सः । प॒दी॒ष्ट॒ । यम् । ऊँ॒ इति॑ । द्वि॒ष्मः । तम् । ऊँ॒ इति॑ । प्रा॒णः । ज॒हा॒तु॒ ॥इन्द्र । ऊतिभिः । बहुलाभिः । नः । अद्य । यात्श्रेष्ठाभिः । मघवन् । शूर । जिन्व । यः । नः । द्वेष्टि । अधरः । सः । पदीष्ट । यम् । ऊँ इति । द्विष्मः । तम् । ऊँ इति । प्राणः । जहातु ॥indra | ūti-bhiḥ | bahulābhiḥ | naḥ | adya | yāt-śreṣṭhābhiḥ | magha-van | śūra | ji nva | yaḥ | naḥ | dveṣṭi | adharaḥ | saḥ | padīṣṭa | yam | oṃ iti | dviṣmaḥ | tam | oṃ iti | prāṇaḥ | jahātu