Sukta 3.53
अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् । स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥
अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् । स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥
ayám asmān vanaspátir mā́ ca hā́ mā́ ca rīriṣat | svastyā́ gṛhébhya ā́vasā ā́ vi-mócanāt ||
May this Lord of the Forest guard us—let him not abandon, let him not harm. With well-being may he bring us to our inner homes, with protection, with release from every binding.
अ॒यम् । अ॒स्मान् । वन॒स्पतिः॑ । मा । च॒ । हाः । मा । च॒ । रि॒रि॒ष॒त् । स्व॒स्ति । आ । गृ॒हेभ्यः॑ । आ । अ॒व॒सै । आ । वि॒ऽमोच॑नात् ॥अयम् । अस्मान् । वनस्पतिः । मा । च । हाः । मा । च । रिरिषत् । स्वस्ति । आ । गृहेभ्यः । आ । अवसै । आ । विमोचनात् ॥ayam | asmān | vanaspatiḥ | mā | ca | hāḥ | mā | ca | ririṣat | svasti | ā | gṛhebhyaḥ | ā | avasai | ā | vi-mocanāt