Sukta 3.53
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः । वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥
इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीरा॑: । वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥
índrāparvatā bṛhatā́ ráthena vāmī́r íṣa ā́ vahatam su-vī́rāḥ | vītáṃ havyā́ny adhvaréṣu devā várdhethāṃ gīrbhír iḷiyā́ mádantā ||
O Indra and Parvata, come on the vast chariot bringing desirable streams of nourishment and energies that beget heroic strength. Enjoy the offerings in the workings of sacrifice, O gods; grow by our inspired words, and in that growth become intoxicated with the delight that carries you into action.
इन्द्रा॑पर्वता । बृ॒ह॒ता । रथे॑न । वा॒मीः । इषः॑ । आ । व॒ह॒त॒म् । सु॒ऽवीराः॑ । वी॒तम् । ह॒व्यानि॑ । अ॒ध्व॒रेषु॑ । दे॒वा॒ । वर्धे॑थाम् । गीः॒ऽभिः । इळि॑या । मद॑न्ता ॥इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुवीराः । वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीःभिः । इळिया । मदन्ता ॥indrāparvatā | bṛhatā | rathena | vāmīḥ | iṣaḥ | ā | vahatam | su-vīrāḥ | vītam | havyāni | adhvareṣu | devā | vardhethām | gīḥ-bhiḥ | iḷiyā | madantā