Sukta 3.53
स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि । इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥
स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि । इन्द्र॑: पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि न॑: सचस्व ॥
sthiráu gā́vau bhavatāṃ vīḷúr akṣó méṣā ví varhi mā́ yugáṃ ví śāri | índraḥ pātalyè dadatāṃ śárītoḥ áriṣṭa-neme abhí naḥ sacasva ||
May the two powers (the yoked energies) be firm; may the axle be strong; let not the traces slip, let not the yoke be shattered. May Indra grant stability on the uneven path; O unbroken-naved one, join to us and move with us.
स्थि॒रौ । गावौ॑ । भ॒व॒ता॒म् । वी॒ळुः । अक्षः॑ । मा । ई॒षा । वि । व॒र्हि॒ । मा । यु॒गम् । वि । शा॒रि॒ । इन्द्रः॑ । पा॒त॒ल्ये॒ इति॑ । द॒द॒ता॒म् । शरी॑तोः । अरि॑ष्टऽनेमे । अ॒भि । नः॒ । स॒च॒स्व॒ ॥स्थिरौ । गावौ । भवताम् । वीळुः । अक्षः । मा । ईषा । वि । वर्हि । मा । युगम् । वि । शारि । इन्द्रः । पातल्ये इति । ददताम् । शरीतोः । अरिष्टनेमे । अभि । नः । सचस्व ॥sthirau | gāvau | bhavatām | vīḷuḥ | akṣaḥ | mā | īṣā | vi | varhi | mā | yugam | vi | śāri | indraḥ | pātalye iti | dadatām | śarītoḥ | ariṣṭa-neme | abhi | naḥ | sacasva