Sukta 3.53
ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु । सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥
स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रव॒: पाञ्च॑जन्यासु कृ॒ष्टिषु॑ । सा प॒क्ष्या॒३॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥
sasarparī́r abharat tū́yam ebhyo ’dhi śrávaḥ pā́ñca-janyāsu kṛṣṭíṣu | sā́ pakṣyā́ navyám ā́yur dádhānā yā́ṃ me palasti-jamadágnayo dadúḥ ||
Sasarparī swiftly brought and set the inspired hearing-glory upon the fivefold peoples; she, winged, establishing a new life-force—she whom the Palasti-Jamadagnis have given to me.
स॒स॒र्प॒रीः । अ॒भ॒र॒त् । तूय॑म् । ए॒भ्यः॒ । अधि॑ । श्रवः॑ । पाञ्च॑ऽजन्यासु । कृ॒ष्टिषु॑ । सा । प॒क्ष्या॑ । नव्य॑म् । आयुः॑ । दधा॑ना । याम् । मे॒ । प॒ल॒स्तिऽज॒म॒द॒ग्नयः॑ । द॒दुः ॥ससर्परीः । अभरत् । तूयम् । एभ्यः । अधि । श्रवः । पाञ्चजन्यासु । कृष्टिषु । सा । पक्ष्या । नव्यम् । आयुः । दधाना । याम् । मे । पलस्तिजमदग्नयः । ददुः ॥sasarparīḥ | abharat | tūyam | ebhyaḥ | adhi | śravaḥ | pāñca-janyāsu | kṛṣṭiṣu | sā | pakṣyā | navyam | āyuḥ | dadhānā | yām | me | palasti-jamadagnayaḥ | daduḥ