Sukta 3.53
उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः । राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥
उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दास॑: । राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥
úpa préta kuśikāś cetáyadhvam áśvaṃ rāyé prá muñcatā sudā́saḥ | rājā́ vṛtráṃ jaṅghanat prā́g apā́g úd ag áthā yajāte váre ā́ pṛthivyā́ḥ ||
Advance, O Kuśikas; awaken your awareness; release the steed for plenitude—Sudās. The king smote the coverer (Vṛtra) forward, backward, upward; then he sacrifices for the chosen boon from the Earth’s wideness.
उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ । राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥उप । प्र । इत । कुशिकाः । चेतयध्वम् । अश्वम् । राये । प्र । मुञ्चत । सुदासः । राजा । वृत्रम् । जङ्घनत् । प्राक् । अपाक् । उदक् । अथ । यजाते । वरे । आ । पृथिव्याः ॥upa | pra | ita | kuśikāḥ | cetayadhvam | aśvam | rāye | pra | muñcata | su-dāsaḥ | rājā | vṛtram | jaṅghanat | prāk | apāk | udak | atha | yajāte | vare | ā | pṛthivyāḥ