Sukta 3.52
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् । इन्द्र प्रातर्जुषस्व नः ॥
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥
dhānā́vantaṃ karambhíṇam apū́pavantaṃ ukthínam | índra prātár juṣasva naḥ ||
O Indra, in the early awakening, accept from us the offerings that carry the grains of force, the well-mixed nourishment, the cakes of plenitude, and the hymn that bears the power of utterance—receive them and make them active in our being.
धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् । इन्द्र॑ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥धानावन्तम् । करम्भिणम् । अपूपवन्तम् । उक्थिनम् । इन्द्र । प्रातः । जुषस्व । नः ॥dhānāvantam | karambhiṇam | apūpa-vantam | ukthinam | indra | prātaḥ | juṣasva | naḥ