Sukta 3.5
सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन । आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥
स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध॑न्ति प्र॒स्वो॑ घृ॒तेन॑ । आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥
sadyó jātá óṣadhībhir vavakṣe yadī́ várdhanti prasvò ghṛténa | ā́pa iva pravátā śúmbhamānā uruṣyád agníḥ pitrór upásthe ||
New-born at once, he grows by the powers of the herbs, when they increase his forward swell with clarified light. Like waters along a slope adorning themselves, Agni widens and guards in the lap of the two Parents.
स॒द्यः । जा॒तः । ओष॑धीभिः । व॒व॒क्षे॒ । यदि॑ । वर्ध॑न्ति । प्र॒ऽस्वः॑ । घृ॒तेन॑ । आपः॑ऽइव । प्र॒ऽवता॑ । शुम्भ॑मानाः । उ॒रु॒ष्यत् । अ॒ग्निः । पि॒त्रोः । उ॒पऽस्थे॑ ॥सद्यः । जातः । ओषधीभिः । ववक्षे । यदि । वर्धन्ति । प्रस्वः । घृतेन । आपःइव । प्रवता । शुम्भमानाः । उरुष्यत् । अग्निः । पित्रोः । उपस्थे ॥sadyaḥ | jātaḥ | oṣadhībhiḥ | vavakṣe | yadi | vardhanti | pra-svaḥ | ghṛtena | āpaḥ-iva | pra-vatā | śumbhamānāḥ | uruṣyat | agniḥ | pitroḥ | upa-sthe