Sukta 3.5
आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः । दीद्यानः शुचिॠष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥
आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः । दीद्या॑न॒: शुचि॑ॠ॒ष्वः पा॑व॒कः पुन॑:पुनर्मा॒तरा॒ नव्य॑सी कः ॥
ā yóniṃ agnír ghṛtávantam asthāt pṛthúpragāṇam uśántam uśānáḥ | dī́dyānaḥ śúciḥ ṛ́ṣvaḥ pā́vakaḥ púnaḥ-punar mā́tarā návyasī kaḥ ||
Agni has taken his stand in the womb rich with clarified light; wide in his forward-chant, he desires and is himself the desiring flame. Shining, pure, lofty, the purifier, he again and again makes the two Mothers ever new—who indeed can measure that?
आ । योनि॑म् । अ॒ग्निः । घृ॒तऽव॑न्तम् । अ॒स्था॒त् । पृ॒थुऽप्र॑गानम् । उ॒शन्त॑म् । उशा॒नः । दीद्या॑नः । शुचिः॑ । ऋ॒ष्वः । पा॒व॒कः । पुनः॑ऽपुनः । मा॒तरा॑ । नव्य॑सी॒ इति॑ । क॒रिति॑ कः ॥आ । योनिम् । अग्निः । घृतवन्तम् । अस्थात् । पृथुप्रगानम् । उशन्तम् । उशानः । दीद्यानः । शुचिः । ऋष्वः । पावकः । पुनःपुनः । मातरा । नव्यसी इति । करिति कः ॥ā | yonim | agniḥ | ghṛta-vantam | asthāt | pṛthu-pragānam | uśantam | uśānaḥ | dīdyānaḥ | śuciḥ | ṛṣvaḥ | pāvakaḥ | punaḥ-punaḥ | mātarā | navyasī iti | karitikaḥ