Sukta 3.5
ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् । ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥
ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् । स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥
ṛbhúś cakré ī́ḍyaṃ cā́ru nā́ma víśvāni devó vayúnāni vidvā́n | sásasya cárma ghṛtávat padáṃ vés tád íd agní rakṣaty áprayucchan ||
R̥bhu fashioned a lovely name worthy of adoration, the god who knows all the workings. He made for Vena the hide of the bull, a station rich with ghee (luminous sweetness); that indeed Agni guards without failing.
ऋ॒भुः । च॒क्रे॒ । ईड्य॑म् । चारु॑ । नाम॑ । विश्वा॑नि । दे॒वः । व॒युना॑नि । वि॒द्वान् । स॒मस्य॑ । चर्म॑ । घृ॒तऽव॑त् प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र॑ऽयुच्छन् ॥ऋभुः । चक्रे । ईड्यम् । चारु । नाम । विश्वानि । देवः । वयुनानि । विद्वान् । समस्य । चर्म । घृतवत् पदम् । वेः । तत् । इत् । अग्निः । रक्षति । अप्रयुच्छन् ॥ṛbhuḥ | cakre | īḍyam | cāru | nāma | viśvāni | devaḥ | vayunāni | vidvān | samasya | carma | ghṛta-vat padam | veḥ | tat | it | agniḥ | rakṣati | apra-yucchan