Sukta 3.5
प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः । पूर्वीॠतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥
प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः । पू॒र्वीॠ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥
pré d u agnír vāvṛdhe stómebhir gī́rbhiḥ stotṝṇā́ṃ namasyà ukthaíḥ | pūrvī́r ṛtásya saṃdṛ́śaś cakānáḥ sáṃ dūtó adyaut uṣáso vi-róke ||
Forward indeed Agni has grown by hymns, by songs, by the recitations of the worshippers. Delighting in the ancient visions of ṛta, the messenger has shone forth together in the wide light of the Dawn.
प्र । इत् । ऊँ॒ इति॑ । अ॒ग्निः । व॒वृ॒धे॒ । स्तोमे॑भिः । गीः॒ऽभिः । स्तो॒तॄ॒णाम् । न॒म॒स्यः॑ । उ॒क्थैः । पू॒र्वीः । ऋ॒तस्य॑ । स॒म्ऽदृशः॑ । च॒का॒नः । सम् । दू॒तः । अ॒द्यौ॒त् । उ॒षसः॑ । वि॒ऽरो॒के ॥प्र । इत् । ऊँ इति । अग्निः । ववृधे । स्तोमेभिः । गीःभिः । स्तोतॄणाम् । नमस्यः । उक्थैः । पूर्वीः । ऋतस्य । सम्दृशः । चकानः । सम् । दूतः । अद्यौत् । उषसः । विरोके ॥pra | it | oṃ iti | agniḥ | vavṛdhe | stomebhiḥ | gīḥ-bhiḥ | stotṝṇām | namasyaḥ | ukthaiḥ | pūrvīḥ | ṛtasya | sam-dṛśaḥ | cakānaḥ | sam | dūtaḥ | adyaut | uṣasaḥ | vi-roke