Sukta 3.5
प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् । पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥
प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्र॑: पद॒वीः क॑वी॒नाम् । पृ॒थु॒पाजा॑ देव॒यद्भि॒: समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥
práty agnír uṣásaś cekitānáḥ ábodhi vípraḥ padavī́ḥ kavīnā́m | pṛthupā́jā devayád-bhiḥ samiddhó’pa dvā́rā támaso váhnir ā́vaḥ ||
Agni, facing the Dawn and becoming conscious, has awakened—the inspired one, the path-finder of the seers. Wide in force, kindled by those who seek the Divine, the carrier has opened the doors of darkness.
प्रति॑ । अ॒ग्निः । उ॒षसः॑ । चेकि॑तानः । अबो॑धि । विप्रः॑ । प॒द॒ऽवीः । क॒वी॒नाम् । पृ॒थु॒ऽपाजाः॑ । दे॒व॒यत्ऽभिः॑ । समि॑द्धः । अप॑ । द्वारा॑ । तम॑सः । वह्निः॑ । आ॒व॒रित्या॑वः ॥प्रति । अग्निः । उषसः । चेकितानः । अबोधि । विप्रः । पदवीः । कवीनाम् । पृथुपाजाः । देवयत्भिः । समिद्धः । अप । द्वारा । तमसः । वह्निः । आवरित्यावः ॥prati | agniḥ | uṣasaḥ | cekitānaḥ | abodhi | vipraḥ | pada-vīḥ | kavīnām | pṛthu-pājāḥ | devayat-bhiḥ | samiddhaḥ | apa | dvārā | tamasaḥ | vahniḥ | āvar ity āvaḥ