Sukta 3.48
उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः । त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥
उ॒ग्रस्तु॑रा॒षाळ॒भिभू॑त्योजा यथाव॒शं त॒न्वं॑ चक्र ए॒षः । त्वष्टा॑र॒मिन्द्रो॑ ज॒नुषा॑भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ॥
ugrás turāṣā́ḷ abhibhū́tyojā yathāvaśáṃ tanvàṃ cakra eṣáḥ | tváṣṭāram índro januṣā́bhibhū́yā́muṣyā́ sómam apibac camū́ṣu ||
Fierce, overpowering in might, he shaped his body at will; Indra, by his very birth mastering Tvaṣṭṛ, drank that Soma in the bowls—taking into himself the formed power and its delight.
उ॒ग्रः । तु॒रा॒षाट् । अ॒भिभू॑तिऽओजाः । य॒था॒ऽव॒शम् । त॒न्व॑म् । च॒क्रे॒ । ए॒षः । त्वष्टा॑रम् । इन्द्रः॑ । ज॒नुषा॑ । अ॒भि॒ऽभूय॑ । आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒ब॒त् । च॒मूषु॑ ॥उग्रः । तुराषाट् । अभिभूतिओजाः । यथावशम् । तन्वम् । चक्रे । एषः । त्वष्टारम् । इन्द्रः । जनुषा । अभिभूय । आमुष्य । सोमम् । अपिबत् । चमूषु ॥ugraḥ | turāṣāṭ | abhibhūti-ojāḥ | yathāvaśam | tanvam | cakre | eṣaḥ | tvaṣṭāram | indraḥ | januṣā | abhi-bhūya | āmuṣya | somam | apibat | camūṣu