Sukta 3.48
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः । प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥
उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूध॑: । प्र॒या॒वय॑न्नचर॒द्गृत्सो॑ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ॥
upasthā́ya mātáram ánnám aiṭa tígmam apaśyad abhí sómam ū́dhaḥ | prayāváyan ácarad gṛ́tso anyā́n mahā́ni cakre purudhápratīkaḥ ||
Standing close to the Mother he sought the food; he beheld the sharp (power) in the Soma, the udder. Moving forth and driving onward, the ardent one ranged beyond others and accomplished great works, he of many forms of manifestation.
उ॒प॒ऽस्थाय॑ । मा॒तर॑म् । अन्न॑म् । ऐ॒ट्ट॒ । ति॒ग्मम् । अ॒प॒श्य॒त् । अ॒भि । सोम॑म् । ऊधः॑ । प्र॒ऽय॒वय॑न् । अ॒च॒र॒त् । गृत्सः॑ । अ॒न्यान् । म॒हानि॑ । च॒क्रे॒ । पु॒रु॒धऽप्र॑तीकः ॥उपस्थाय । मातरम् । अन्नम् । ऐट्ट । तिग्मम् । अपश्यत् । अभि । सोमम् । ऊधः । प्रयवयन् । अचरत् । गृत्सः । अन्यान् । महानि । चक्रे । पुरुधप्रतीकः ॥upa-sthāya | mātaram | annam | aiṭa | tigmam | apaśyat | abhi | somam | ūdhaḥ | pra-yavayan | acarat | gṛtsaḥ | anyān | mahāni | cakre | purudha-pratīkaḥ