Sukta 3.48
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
śunáṃ huvema maghávānam índram asmín bháre nṛ́tamaṃ vā́jasātau | śṛṇvántam ugrám ūtáye samátsu ghnántaṃ vṛtrā́ṇi saṃjítam dhánānām ||
For happiness we call the bountiful Indra in this bearing of the struggle, the best of men in the winning of plenitude; hearing us, fierce for our aid in the battles, smiting the obstructers, the conqueror who gathers the riches of being.
शु॒नम् । हु॒वे॒म॒ । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥शुनम् । हुवेम । मघवानम् । इन्द्रम् । अस्मिन् । भरे । नृतमम् । वाजसातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्सु । घ्नन्तम् । वृत्राणि । सम्जितम् । धनानाम् ॥śunam | huvema | maghavānam | indram | asmin | bhare | nṛ-tamam | vāja-sātau | śṛṇvantam | ugram | ūtaye | samat-su | ghnantam | vṛtrāṇi | sam-jitam | dhanānām