Sukta 3.48
यज्जायथास्तदहरस्य कामेंऽशोः पीयूषमपिबो गिरिष्ठाम् । तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥
यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् । तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑ ॥
yáj jā́yathās tád áhar asyá kā́me aṃśóḥ pīyū́ṣam ápibo giriṣṭhā́m | táṃ te mātā́ pári yóṣā́ jánitrī maháḥ pitúr dáma ā́ asiñcad ágre ||
When thou wast born, on that day, according to the will of this becoming, thou didst drink the mountain-standing sweetness of the Soma-stalk; and thy mother, the shaping woman who bore thee, first poured it for thee in the house of the mighty Father.
यत् । जाय॑थाः । तत् । अहः॑ । अ॒स्य॒ । कामे॑ । अं॒शोः । पी॒यूष॑म् । अ॒पि॒बः॒ । गि॒रि॒ऽस्थाम् । तम् । ते॒ । मा॒ता । परि॑ । योषा॑ । जनि॑त्री । म॒हः । पि॒तुः । दमे॑ । आ । अ॒सि॒ञ्च॒त् । अग्रे॑ ॥यत् । जायथाः । तत् । अहः । अस्य । कामे । अंशोः । पीयूषम् । अपिबः । गिरिस्थाम् । तम् । ते । माता । परि । योषा । जनित्री । महः । पितुः । दमे । आ । असिञ्चत् । अग्रे ॥yat | jāyathāḥ | tat | ahaḥ | asya | kāme | aṃśoḥ | pīyūṣam | apibaḥ | giri-sthām | tam | te | mātā | pari | yoṣā | janitrī | mahaḥ | pituḥ | dame | ā | asiñcat | agre