Sukta 3.48
सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य । साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥
स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीन॒: प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ । सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑ ॥
sadyáḥ ha jātó vṛṣabháḥ kanīnáḥ prábhartum ā́vad ándhasaḥ sutásya | sādhóḥ piba pratikā́maṃ yáthā te rásāśiraḥ prathamáṃ somyásya ||
Immediately upon his birth the young bull came forward to bear the pressed delight; drink of the good Soma according to thy will, so that for thee the first draught of the Somya becomes a mixture rich in essence.
स॒द्यः । ह॒ । ज॒तः । वृ॒ष॒भः । क॒नीनः॑ । प्रऽभ॑र्तुम् । आ॒व॒त् । अन्ध॑सः । सु॒तस्य॑ । सा॒धोः । पि॒ब॒ । प्र॒ति॒ऽका॒मम् । यथा॑ । ते॒ । रस॑ऽआशिरः । प्र॒थ॒मम् । सो॒म्यस्य॑ ॥सद्यः । ह । जतः । वृषभः । कनीनः । प्रभर्तुम् । आवत् । अन्धसः । सुतस्य । साधोः । पिब । प्रतिकामम् । यथा । ते । रसआशिरः । प्रथमम् । सोम्यस्य ॥sadyaḥ | ha | jataḥ | vṛṣabhaḥ | kanīnaḥ | pra-bhartum | āvat | andhasaḥ | sutasya | sādhoḥ | piba | prati-kāmam | yathā | te | rasa-āśiraḥ | prathamam | somyasya