Sukta 3.46
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् । इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् । इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तास॑: समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ॥
urúṁ gabhīráṁ januṣā́bhy ùgráṁ viśvá-vyacasam avatáṁ matīnā́m | índraṁ sómāsaḥ prá-divi sutā́saḥ samudráṁ ná sraváta ā́ viśanti ||
Wide and deep, fierce by his very birth, all-pervading, the helper of the thoughts—into Indra the pressed Soma-streams enter, as running waters enter the ocean.
उ॒रुम् । ग॒भी॒रम् । ज॒नुषा॑ । अ॒भि । उ॒ग्रम् । वि॒श्वऽव्य॑चसम् । अ॒व॒तम् । म॒ती॒नाम् । इन्द्र॑म् । सोमा॑सः । प्र॒ऽदिवि॑ । सु॒तासः॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । आ । वि॒श॒न्ति॒ ॥उरुम् । गभीरम् । जनुषा । अभि । उग्रम् । विश्वव्यचसम् । अवतम् । मतीनाम् । इन्द्रम् । सोमासः । प्रदिवि । सुतासः । समुद्रम् । न । स्रवतः । आ । विशन्ति ॥urum | gabhīram | januṣā | abhi | ugram | viśva-vyacasam | avatam | matīnām | indram | somāsaḥ | pra-divi | sutāsaḥ | samudram | na | sravataḥ | ā | viśanti