Sukta 3.46
प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः । प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥
प्र मात्रा॑भी रिरिचे॒ रोच॑मान॒: प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः । प्र म॒ज्मना॑ दि॒व इन्द्र॑: पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ॥
prá mā́trābhir ririce rۆcamānáḥ | prá devébhiḥ viśvátó apráti-itaḥ | prá majmánā divá índraḥ pṛthivyā́ḥ prórór mahó antárikṣād ṛjīṣī́ ||
He overflows in his measures, shining; he advances beyond the gods from every side, irresistible. Indra, the straight-striving, grows by vastness beyond heaven and earth, beyond the wide greatness of the mid-world.
प्र । मात्रा॑भिः । रि॒रि॒चे॒ । रोच॑मानः । प्र । दे॒वेभिः॑ । वि॒श्वतः । अप्र॑तिऽइतः । प्र । म॒ज्मना॑ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । प्र । उ॒रोः । म॒हः । अ॒न्तरि॑क्षात् । ऋ॒जी॒षी ॥प्र । मात्राभिः । रिरिचे । रोचमानः । प्र । देवेभिः । विश्वतः । अप्रतिइतः । प्र । मज्मना । दिवः । इन्द्रः । पृथिव्याः । प्र । उरोः । महः । अन्तरिक्षात् । ऋजीषी ॥pra | mātrābhiḥ | ririce | rocamānaḥ | pra | devebhiḥ | viśvataḥ | aprati-itaḥ | pra | majmanā | divaḥ | indraḥ | pṛthivyāḥ | pra | uroḥ | mahaḥ | antarikṣāt | ṛjīṣī