Sukta 3.46
यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया । तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥
यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या । तं ते॑ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥
yáṁ sómam indra pṛthivī́-dyā́vā gárbhaṁ ná mātā́ bibhṛtás tvāyā́ | táṁ te hinvanti tám u te mṛjanti adhvaryávo vṛṣabha pātávā u ||
The Soma that Earth and Heaven uphold for thee as a mother bears her child—this they set in motion for thee, this they cleanse for thee, O Bull, that thou mayest drink.
यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया । तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊँ॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊँ॒ इति॑ ॥यम् । सोमम् । इन्द्र । पृथिवीद्यावा । गर्भम् । न । माता । बिभृतः । त्वाया । तम् । ते । हिन्वन्ति । तम् । ऊँ इति । ते । मृजन्ति । अध्वर्यवः । वृषभ । पातवै । ऊँ इति ॥yam | somam | indra | pṛthivīdyāvā | garbham | na | mātā | bibhṛtaḥ | tvāyā | tam | te | hinvanti | tam | oṃ iti | te | mṛjanti | adhvaryavaḥ | vṛṣabha | pātavai | oṃ iti