Sukta 3.46
महाँ असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् । एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् । एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥
mahā́m̐ asi mahiṣa vṛ́ṣṇyebhir dhana-spṛ́d ugra sáhamāno anyā́n | éko víśvasya bhúvanasya rājā́ sá yódhayā ca kṣáyayā ca jánān ||
Great art thou, O mighty one, with thy manly powers—fierce, winning the riches, overpowering the others. Thou alone art king of all becoming; thou canst drive men to battle and also establish them in a secure dwelling.
म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् । एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यया॑ । च॒ । जना॑न् ॥महान् । असि । महिष । वृष्ण्येभिः । धनस्पृत् । उग्र । सहमानः । अन्यान् । एकः । विश्वस्य । भुवनस्य । राजा । सः । योधया । च । क्षयया । च । जनान् ॥mahān | asi | mahiṣa | vṛṣṇyebhiḥ | dhana-spṛt | ugra | sahamānaḥ | anyān | ekaḥ | viśvasya | bhuvanasya | rājā | saḥ | yodhayā | ca | kṣayayā | ca | janān