Sukta 3.46
युध्मस्य ते वृषभस्य स्वराज उग्रस्य यूनः स्थविरस्य घृष्वेः । अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यून॒: स्थवि॑रस्य॒ घृष्वे॑: । अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥
yudhmásya te vṛṣabhásya sva-rā́ja ugrásya yū́naḥ sthávirasya ghṛ́ṣveḥ | अजū́ryato vajríṇo vīryā́ṇī́ndra śrutásya maható mahā́ni ||
Thine are the hero-powers, O Indra—of the battling Bull, self-sovereign, fierce, youthful yet firm, impetuous in onset; of the unaging wielder of the thunder-force—great are the great deeds of the far-famed Mighty.
यु॒ध्मस्य॑ । ते॒ । वृ॒ष॒भस्य॑ । स्व॒ऽराजः॑ । उ॒ग्रस्य॑ । यूनः॑ । स्थवि॑रस्य । घृष्वेः॑ । अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ । श्रु॒तस्य॑ । म॒ह॒तः । म॒हानि॑ ॥युध्मस्य । ते । वृषभस्य । स्वराजः । उग्रस्य । यूनः । स्थविरस्य । घृष्वेः । अजूर्यतः । वज्रिणः । वीर्याणि । इन्द्र । श्रुतस्य । महतः । महानि ॥yudhmasya | te | vṛṣabhasya | sva-rājaḥ | ugrasya | yūnaḥ | sthavirasya | ghṛṣveḥ | ajūryataḥ | vajriṇaḥ | vīryāṇi | indra | śrutasya | mahataḥ | mahāni